|
4.1.1 | | मैत्रेय उवाच मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥१॥ |
4.1.2 | | आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः |
4.1.3 | | प्रजापतिः स भगवान्रुचिस्तस्यामजीजनत् मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना |
4.1.4 | | यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक् या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी |
4.1.5 | | आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् |
4.1.6 | | तां कामयानां भगवानुवाह यजुषां पतिः तुष्टायां तोषमापन्नोऽ जनयद्द्वादशात्मजान् |
4.1.7 | | तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् |
4.1.8 | | तुषिता नाम ते देवा आसन्स्वायम्भुवान्तरे मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः |
4.1.9 | | प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम् |
4.1.10 | | देवहूतिमदात्तात कर्दमायात्मजां मनुः तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम |
4.1.11 | | दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः प्रायच्छद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान् |
4.1.12 | | याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः । तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥१२॥ |
4.1.13 | | पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥१३॥ |
4.1.14 | | पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः ॥१४॥ |
4.1.15 | | अत्रेः पत्न्यनसूया त्रीञ्जज्ञे सुयशसः सुतान् । दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥१५॥ |
4.1.16 | | विदुर उवाच अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः । किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥१६॥ |
4.1.17 | | मैत्रेय उवाच ब्रह्मणा चोदितः सृष्टावत्रिर्ब्रह्मविदां वरः । सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥१७॥ |
4.1.18 | | तस्मिन्प्रसूनस्तबक पलाशाशोककानने । वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥१८॥ |
4.1.19 | | प्राणायामेन संयम्य मनो वर्षशतं मुनिः । अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥१९॥ |
4.1.20 | | शरणं तं प्रपद्येऽहं य एव जगदीश्वरः । प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥२०॥ |
4.1.21 | | तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥२१॥ |
4.1.22 | | अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः । वितायमानयशसस्तदाश्रमपदं ययुः ॥२२॥ |
4.1.23 | | तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः । उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥२३॥ |
4.1.24 | | प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः । वृषहंससुपर्णस्थान्स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥२४॥ |
4.1.25 | | कृपावलोकेन हसद् वदनेनोपलम्भितान् । तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥२५॥ |
4.1.26-27 | | चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः । श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥२६॥ अत्रिरुवाच विश्वोद्भवस्थितिलयेषु विभज्यमानैर् मायागुणैरनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं व स्तेभ्यः क एव भवतां म इहोपहूतः ॥२७॥ |
4.1.28 | | एको मयेह भगवान्विविधप्रधानैश् चित्तीकृतः प्रजननाय कथं नु यूयम् । अत्रागतास्तनुभृतां मनसोऽपि दूराद् ब्रूत प्रसीदत महानिह विस्मयो मे ॥२८॥ |
4.1.29 | | मैत्रेय उवाच इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥२९॥ |
4.1.30 | | देवा ऊचुः यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा । सत्सङ्कल्पस्य ते ब्रह्मन्यद्वै ध्यायति ते वयम् ॥३०॥ |
4.1.31 | | अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः । भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥३१॥ |
4.1.32 | | एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः ॥३२॥ |
4.1.33 | | सोमोऽभूद्ब्रह्मणोऽशेन दत्तो विष्णोस्तु योगवित् । दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥३३॥ |
4.1.34 | | श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥३४॥ |
4.1.35 | | तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे । उतथ्यो भगवान्साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः ॥३५॥ |
4.1.36 | | पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हविर्भुवि । सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥३६॥ |
4.1.37 | | तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः । रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥३७॥ |
4.1.38 | | पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥३८॥ |
4.1.39 | | क्रतोरपि क्रिया भार्या वालखिल्यानसूयत । ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥३९॥ |
4.1.40 | | ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप । चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥४०॥ |
4.1.41 | | चित्रकेतुः सुरोचिश्च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान्शक्त्यादयोऽपरे ॥४१॥ |
4.1.42 | | चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् । दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥४२॥ |
4.1.43 | | भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् । धातारं च विधातारं श्रियं च भगवत्पराम् ॥४३॥ |
4.1.44 | | आयतिं नियतिं चैव सुते मेरुस्तयोरदात् । ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥ |
4.1.45 | | मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः । कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥ |
4.1.46-47 | | त एते मुनयः क्षत्तर्लोकान्सर्गैरभावयन् । एष कर्दमदौहित्र सन्तानः कथितस्तव ॥४६॥ शृण्वतः श्रद्दधानस्य सद्यः पापहरः परः । प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः ॥४७॥ |
4.1.48 | | तस्यां ससर्ज दुहितॄः षोडशामललोचनाः । त्रयोदशादाद्धर्माय तथैकामग्नये विभुः ॥४८॥ |
4.1.49-52 | | पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे । श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः ॥४९॥ बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः । श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ॥५०॥ शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत । योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ॥५१॥ मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् । मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥५२॥ |
4.1.53 | | ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् । मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥५३॥ |
4.1.54-55 | | दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः । मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥५४॥ नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥५५॥ |
4.1.56 | | देवा ऊचुः यो मायया विरचितं निजयात्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥५६॥ |
4.1.57 | | सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणाननुमेयतत्त्वः । दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥५७॥ |
4.1.58 | | एवं सुरगणैस्तात भगवन्तावभिष्टुतौ । लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥५८॥ |
4.1.59 | | ताविमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥५९॥ |
4.1.60 | | स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् । पावकं पवमानं च शुचिं च हुतभोजनम् ॥६०॥ |
4.1.61 | | तेभ्योऽग्नयः समभवन्चत्वारिंशच्च पञ्च च । त एवैकोनपञ्चाशत्साकं पितृपितामहैः ॥६१॥ |
4.1.62 | | वैतानिके कर्मणि यन् नामभिर्ब्रह्मवादिभिः । आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥६२॥ |
4.1.63 | | अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥६३॥ |
4.1.64 | | तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥६४॥ |
4.1.65 | | भवस्य पत्नी तु सती भवं देवमनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ॥६५॥ |
4.1.66 | | पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानमजहाद्योगसंयुता ॥६६॥ |
|