Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 3 - The Status Quo
<<
12 - Creation of the Kumāras and Others
>>
Index
Transliteration
Devanagari
Description
3..12..1
मैत्रेय उवाच
इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः
महिमा वेदगर्भोऽथ यथास्राक्षीन्निबोध मे
3..12..2
ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत्
महामोहं च मोहं च तमश्चाज्ञानवृत्तयः
3..12..3
दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत
भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत्
3..12..4
सनकं च सनन्दं च सनातनमथात्मभूः
सनत्कुमारं च मुनीन्निष्क्रियानूर्ध्वरेतसः
3..12..5
तान्बभाषे स्वभूः पुत्रान्प्रजाः सृजत पुत्रकाः
तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः
3..12..6
सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः
क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे
3..12..7
धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात्प्रजापतेः
सद्योऽजायत तन्मन्युः कुमारो नीललोहितः
3..12..8
स वै रुरोद देवानां पूर्वजो भगवान्भवः
नामानि कुरु मे धातः स्थानानि च जगद्गुरो
3..12..9
इति तस्य वचः पाद्मो भगवान्परिपालयन्
अभ्यधाद्भद्रया वाचा मा रोदीस्तत्करोमि ते
3..12..10
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः
3..12..11
हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही
सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि ते
3..12..12
मन्युर्मनुर्महिनसो महाञ्छिव ऋतध्वजः
उग्ररेता भवः कालो वामदेवो धृतव्रतः
3..12..13
धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः
3..12..14
गृहाणैतानि नामानि स्थानानि च सयोषणः
एभिः सृज प्रजा बह्वीः प्रजानामसि यत्पतिः
3..12..15
इत्यादिष्टः स्वगुरुणा भगवान्नीललोहितः
सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः
3..12..16
रुद्राणां रुद्रसृष्टानां समन्ताद्ग्रसतां जगत्
निशाम्यासङ्ख्यशो यूथान्प्रजापतिरशङ्कत
3..12..17
अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम
मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः
3..12..18
तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम्
तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान्
3..12..19
तपसैव परं ज्योतिर्भगवन्तमधोक्षजम्
सर्वभूतगुहावासमञ्जसा विन्दते पुमान्
3..12..20
मैत्रेय उवाच
एवमात्मभुवादिष्टः परिक्रम्य गिरां पतिम्
बाढमित्यमुमामन्त्र्य विवेश तपसे वनम्
3..12..21
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे
भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः
3..12..22
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः
3..12..23
उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः
प्राणाद्वसिष्ठः सञ्जातो भृगुस्त्वचि करात्क्रतुः
3..12..24
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोरृषिः
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत्
3..12..25
धर्मः स्तनाद्दक्षिणतो यत्र नारायणः स्वयम्
अधर्मः पृष्ठतो यस्मान्मृत्युर्लोकभयङ्करः
3..12..26
हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात्
आस्याद्वाक्सिन्धवो मेढ्रान्निरृतिः पायोरघाश्रयः
3..12..27
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः
मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत्
3..12..28
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः
अकामां चकमे क्षत्तः सकाम इति नः श्रुतम्
3..12..29
तमधर्मे कृतमतिं विलोक्य पितरं सुताः
मरीचिमुख्या मुनयो विश्रम्भात्प्रत्यबोधयन्
3..12..30
नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे
यस्त्वं दुहितरं गच्छेरनिगृह्याङ्गजं प्रभुः
3..12..31
तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो
यद्वृत्तमनुतिष्ठन्वै लोकः क्षेमाय कल्पते
3..12..32
तस्मै नमो भगवते य इदं स्वेन रोचिषा
आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति
3..12..33
स इत्थं गृणतः पुत्रान्पुरो दृष्ट्वा प्रजापतीन्
प्रजापतिपतिस्तन्वं तत्याज व्रीडितस्तदा
तां दिशो जगृहुर्घोरां नीहारं यद्विदुस्तमः
3..12..34
कदाचिद्ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात्
कथं स्रक्ष्याम्यहं लोकान्समवेतान्यथा पुरा
3..12..35
चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह
धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः
3..12..36
विदुर उवाच
स वै विश्वसृजामीशो वेदादीन्मुखतोऽसृजत्
यद्यद्येनासृजद्देवस्तन्मे ब्रूहि तपोधन
3..12..37
मैत्रेय उवाच
ऋग्यजुःसामाथर्वाख्यान्वेदान्पूर्वादिभिर्मुखैः
शास्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात्
3..12..38
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः
स्थापत्यं चासृजद्वेदं क्रमात्पूर्वादिभिर्मुखैः
3..12..39
इतिहासपुराणानि पञ्चमं वेदमीश्वरः
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः
3..12..40
षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्
3..12..41
विद्या दानं तपः सत्यं धर्मस्येति पदानि च
आश्रमांश्च यथासङ्ख्यमसृजत्सह वृत्तिभिः
3..12..42
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा
वार्ता सञ्चयशालीन शिलोञ्छ इति वै गृहे
3..12..43
वैखानसा वालखिल्यौ दुम्बराः फेनपा वने
न्यासे कुटीचकः पूर्वं बह्वोदो हंसनिष्क्रियौ
3..12..44
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च
एवं व्याहृतयश्चासन्प्रणवो ह्यस्य दह्रतः
3..12..45
तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः
त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब्जगत्यस्थ्नः प्रजापतेः
3..12..46
मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत्
3..12..47
स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृत
ऊष्माणमिन्द्रियाण्याहुरन्तःस्था बलमात्मनः
स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः
3..12..48
शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः
ब्रह्मावभाति विततो नानाशक्त्युपबृंहितः
3..12..49
ततोऽपरामुपादाय स सर्गाय मनो दधे
3..12..50
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम्
ज्ञात्वा तद्धृदये भूयश्चिन्तयामास कौरव
3..12..51
अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम्
3..12..52
एवं युक्तकृतस्तस्य दैवं चावेक्षतस्तदा
कस्य रूपमभूद्द्वेधा यत्कायमभिचक्षते
3..12..53
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत
3..12..54
यस्तु तत्र पुमान्सोऽभून्मनुः स्वायम्भुवः स्वराट्
स्त्री यासीच्छतरूपाख्या महिष्यस्य महात्मनः
3..12..55
तदा मिथुनधर्मेण प्रजा ह्येधाम्बभूविरे
3..12..56
स चापि शतरूपायां पञ्चापत्यान्यजीजनत्
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम
3..12..57
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम्
दक्षायादात्प्रसूतिं च यत आपूरितं जगत्
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library