Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order

<< 27 - Attack by Caṇḍavega on the City of King Purañjana; the Character of Kālakanyā >>

    Index        Transliteration        Devanagari        Description    
4.27.1नारद उवाच इत्थं पुरञ्जनं सध्र्यग्वशमानीय विभ्रमै: । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥
4.27.2स राजा महिषीं राजन् सुस्‍नातां रुचिराननाम् । कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥ २ ॥
4.27.3तयोपगूढ: परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतन: । न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रह: ॥ ३ ॥
4.27.4शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधि: । तामेव वीरो मनुते परं यतस्तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥
4.27.5तयैवं रममाणस्य कामकश्मलचेतस: । क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वय: ॥ ५ ॥
4.27.6तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जन: । शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥ ६ ॥
4.27.7दुहितृर्दशोत्तरशतं पितृमातृयशस्करी: । शीलौदार्यगुणोपेता: पौरञ्जन्य: प्रजापते ॥ ७ ॥
4.27.8स पञ्चालपति: पुत्रान् पितृवंशविवर्धनान् । दारै: संयोजयामास दुहितृ: सद‍ृशैर्वरै: ॥ ८ ॥
4.27.9पुत्राणां चाभवन्पुत्रा एकैकस्य शतं शतम् । यैर्वै पौरञ्जनो वंश: पञ्चालेषु समेधित: ॥ ९ ॥
4.27.10तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु । निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥
4.27.11ईजे च क्रतुभिर्घोरैर्दीक्षित: पशुमारकै: । देवान् पितृन् भूतपतीन्नानाकामो यथा भवान् ॥ ११ ॥
4.27.12युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतस: । आससाद स वै कालो योऽप्रिय: प्रिययोषिताम् ॥ १२ ॥
4.27.13चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप । गन्धर्वास्तस्य बलिन: षष्ट्युत्तरशतत्रयम् ॥ १३ ॥
4.27.14गन्धर्व्यस्ताद‍ृशीरस्य मैथुन्यश्च सितासिता: । परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥
4.27.15ते चण्डवेगानुचरा: पुरञ्जनपुरं यदा । हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागर: ॥ १५ ॥
4.27.16स सप्तभि: शतैरेको विंशत्या च शतं समा: । पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥
4.27.17क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा । चिन्तां परां जगामार्त: सराष्ट्रपुरबान्धव: ॥ १७ ॥
4.27.18स एव पुर्यां मधुभुक्पञ्चालेषु स्वपार्षदै: । उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥ १८ ॥
4.27.19कालस्य दुहिता काचित्‍त्रिलोकीं वरमिच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥
4.27.20दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा । या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥
4.27.21कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् । वव्रे बृहद्‌व्रतं मां तु जानती काममोहिता ॥ २१ ॥
4.27.22मयि संरभ्य विपुलमदाच्छापं सुदु:सहम् । स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥ २२ ॥
4.27.23ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् । मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥
4.27.24ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् । सङ्कल्पस्त्वयि भूतानां कृत: किल न रिष्यति ॥ २४ ॥
4.27.25द्वाविमावनुशोचन्ति बालावसदवग्रहौ । यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
4.27.26अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु । एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥ २६ ॥
4.27.27कालकन्योदितवचो निशम्य यवनेश्वर: । चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥
4.27.28मया निरूपितस्तुभ्यं पतिरात्मसमाधिना । नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥ २८ ॥
4.27.29त्वमव्यक्तगतिर्भुङ्‌क्ष्व लोकं कर्मविनिर्मितम् । या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥
4.27.30प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिक: ॥ ३० ॥
Donate to Bhaktivedanta Library