Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 4 - The Creation of the Fourth Order
<<
26 - King Purañjana Goes to the Forest to Hunt, and His Queen Becomes Angry
>>
Index
Transliteration
Devanagari
Description
4.26.1-3
नारद उवाच
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।
द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥
एकरश्म्येकदमनमेकनीडं द्विकूबरम् ।
पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २ ॥
हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधि: ।
एकादशचमूनाथ: पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥
4.26.4
चचार मृगयां तत्र दृप्त आत्तेषुकार्मुक: ।
विहाय जायामतदर्हां मृगव्यसनलालस: ॥ ४ ॥
4.26.5
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रह: ।
न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५ ॥
4.26.6
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।
यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
4.26.7
य एवं कर्म नियतं विद्वान् कुर्वीत मानव: ।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
4.26.8
अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।
गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यध: ॥ ८ ॥
4.26.9
तत्र निर्भिन्नगात्राणां चित्रवाजै: शिलीमुखै: ।
विप्लवोऽभूद्दु:खितानां दु:सह: करुणात्मनाम् ॥ ९ ॥
4.26.10
शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।
मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥
4.26.11
तत: क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् ।
कृतस्नानोचिताहार: संविवेश गतक्लम: ॥ ११ ॥
4.26.12
आत्मानमर्हयां चक्रे धूपालेपस्रगादिभि: ।
साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मन: ॥ १२ ॥
4.26.13
तृप्तो हृष्ट: सुदृप्तश्च कन्दर्पाकृष्टमानस: ।
न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥
4.26.14
अन्त:पुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् ।
अपि व: कुशलं रामा: सेश्वरीणां यथा पुरा ॥ १४ ॥
4.26.15
न तथैतर्हि रोचन्ते गृहेषु गृहसम्पद: ।
यदि न स्याद्गृहे माता पत्नी वा पतिदेवता ।
व्यङ्गे रथ इव प्राज्ञ: को नामासीत दीनवत् ॥ १५ ॥
4.26.16
क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।
या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥
4.26.17
रामा ऊचु:
नरनाथ न जानीमस्त्वत्प्रिया यद्वयवस्यति ।
भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥
4.26.18
नारद उवाच
पुरञ्जन: स्वमहिषीं निरीक्ष्यावधुतां भुवि ।
तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥
4.26.19
सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।
प्रेयस्या: स्नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥ १९ ॥
4.26.20
अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविद: ।
पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २० ॥
4.26.21
पुरञ्जन उवाच
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वरा: शुभे ।
कृताग:स्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥
4.26.22
परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पित: ।
बालो न वेद तत्तन्वि बन्धुकृत्यममर्षण: ॥ २२ ॥
4.26.23
सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद्धसितावलोकम् ।
नीलालकालिभिरुपस्कृतमुन्नसं न: स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥
4.26.24
तस्मिन्दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।
पश्ये न वीतभयमुन्मुदितं त्रिलोक्यामन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥
4.26.25
वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् ।
पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५ ॥
4.26.26
तन्मे प्रसीद सुहृद: कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य ।
का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६ ॥
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library