Library
Home
Śrīla Prabhupāda
ISKCON
Languages
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors
Books
Basics
Reference
Essays
Narrative by Ācaryas
Philosophical by Ācaryas
By Śrīla Prabhupāda
The Great Classics
About Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Philosophical by Prabhupāda's Disciples
Magazines
All the Library
Websites
ISKCON Virtual Temple
Virtual Istagosthi
Vaiṣṇava Calendar
Kṛṣṇa West
Śrīmad-Bhāgavatam
Canto 1 - Creation
<<
19 - The Appearance of Śukadeva Gosvāmī
>>
Index
Transliteration
Devanagari
Description
1..19..1
सूत उवाच
महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मनाः
अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि
1..19..2
ध्रुवं ततो मे कृतदेवहेलनाद्दुरत्ययं व्यसनं नातिदीर्घात्
तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा
1..19..3
अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे
दहत्वभद्रस्य पुनर्न मेऽभूत्पापीयसी धीर्द्विजदेवगोभ्यः
1..19..4
स चिन्तयन्नित्थमथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः
स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम्
1..19..5
अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात्
कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत्प्रायममर्त्यनद्याम्
1..19..6
या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री
पुनाति लोकानुभयत्र सेशान्कस्तां न सेवेत मरिष्यमाणः
1..19..7
इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम्
दधौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः
1..19..8
तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः
प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः
1..19..9-10
अत्रिर्वसिष्ठश्च्यवनः शरद्वानरिष्टनेमिर्भृगुरङ्गिराश्च
पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ
मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः
मैत्रेय और्वः कवषः कुम्भयोनिर्द्वैपायनो भगवान्नारदश्च
1..19..11
अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च
नानार्षेयप्रवरान्समेतानभ्यर्च्य राजा शिरसा ववन्दे
1..19..12
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत्
विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः
1..19..13
राजोवाच
अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः
राज्ञां कुलं ब्राह्मणपादशौचाद्दूराद्विसृष्टं बत गर्ह्यकर्म
1..19..14
तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम्
निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते
1..19..15
तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे
द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः
1..19..16
पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु
महत्सु यां यामुपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः
1..19..17
इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः
उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः
1..19..18
एवं च तस्मिन्नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः
प्रशस्य भूमौ व्यकिरन्प्रसूनैर्मुदा मुहुर्दुन्दुभयश्च नेदुः
1..19..19
महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः
ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम्
1..19..20
न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु
येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः
1..19..21
सर्वे वयं तावदिहास्महेऽथ कलेवरं यावदसौ विहाय
लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः
1..19..22
आश्रुत्य तदृषिगणवचः परीक्षित्समं मधुच्युद्गुरु चाव्यलीकम्
आभाषतैनानभिनन्द्य युक्तान्शुश्रूषमाणश्चरितानि विष्णोः
1..19..23
समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे
नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहमात्मशीलम्
1..19..24
ततश्च वः पृच्छ्यमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम्
सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः
1..19..25
तत्राभवद्भगवान्व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः
अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः
1..19..26
तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम्
चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम्
1..19..27
निगूढजत्रुं पृथुतुङ्गवक्षसमावर्तनाभिं वलिवल्गूदरं च
दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम्
1..19..28
श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन
प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस्तल्लक्षणज्ञा अपि गूढवर्चसम्
1..19..29
स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाजहार
ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका महासने सोपविवेश पूजितः
1..19..30
स संवृतस्तत्र महान्महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः
व्यरोचतालं भगवान्यथेन्दुर्ग्रहर्क्षतारानिकरैः परीतः
1..19..31
प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य
प्रणम्य मूर्ध्नावहितः कृताञ्जलिर्नत्वा गिरा सूनृतयान्वपृच्छत्
1..19..32
परीक्षिदुवाच
अहो अद्य वयं ब्रह्मन्सत्सेव्याः क्षत्रबन्धवः
कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः
1..19..33
येषां संस्मरणात्पुंसां सद्यः शुद्ध्यन्ति वै गृहाः
किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः
1..19..34
सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः
1..19..35
अपि मे भगवान्प्रीतः कृष्णः पाण्डुसुतप्रियः
पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः
1..19..36
अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम्
नितरां म्रियमाणानां संसिद्धस्य वनीयसः
1..19..37
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम्
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा
1..19..38
यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभिः प्रभो
स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम्
1..19..39
नूनं भगवतो ब्रह्मन्गृहेषु गृहमेधिनाम्
न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित्
1..19..40
सूत उवाच
एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा
प्रत्यभाषत धर्मज्ञो भगवान्बादरायणिः
<< Anterior
|
Siguiente >>
Otros idiomas:
Pares de idiomas:
Clases en Audio/video:>
Obtener libro:
Copyright:
Help:
Donate to Bhaktivedanta Library