Bhagavad-gītā - As it Is
<< 6 - Dhyāna-yoga >>
    Index        Transliteration        Devanagari    
6.1श्रीभगवानुवाच .अनाश्रित: कर्मफलं कार्यं कर्म करोति य: । .स सन्न्यासी च योगी च न निरग्न‍िर्न चाक्रिय: ॥ १ ॥
6.2यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । .न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥
6.3आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते .यॊगारूढस्य तस्यैव शमः कारणम उच्यते
6.4यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्ज‍ते । .सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥
6.5उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । .आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: ॥ ५ ॥
6.6बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः .अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत
6.7जितात्मन: प्रशान्तस्य परमात्मा समाहित: । .शीतोष्णसुखदु:खेषु तथा मानापमानयो: ॥ ७ ॥
6.8ज्ञानविज्ञानतृप्‍तात्मा कूटस्थो विजितेन्द्रिय: । .युक्त इत्युच्यते योगी समलोष्ट्राश्मकाञ्चन: ॥ ८ ॥
6.9सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु .साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते
6.10योगी युञ्जीत सततमात्मानं रहसि स्थित: । .एकाकी यतचित्तात्मा निराशीरपरिग्रह: ॥ १० ॥
6.11-12श‍ुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: । .नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥ .तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय । .उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥ १२ ॥
6.13-14समं कायशिरोग्रीवं धारयन्नचलं स्थिर: । .सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥ .प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: । .मन: संयम्य मच्च‍ित्तो युक्त आसीत मत्पर: ॥ १४ ॥
6.15युञ्जन्नेवं सदात्मानं योगी नियतमानस: । .शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥
6.16नात्यश्न‍तस्तु योगोऽस्ति न चैकान्तमनश्न‍त: । .न चातिस्वप्‍नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥
6.17युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । .युक्तस्वप्‍नावबोधस्य योगो भवति दु:खहा ॥ १७ ॥
6.18यदा विनियतं चित्तमात्मन्येवावतिष्ठते । .निस्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
6.19यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । .योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥ १९ ॥
6.20-23यत्रोपरमते चित्तं निरुद्धं योगसेवया । .यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥ .सुखमात्यन्तिकं यत्तद्‍बुद्धिग्राह्यमतीन्द्रियम् । .वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: ॥ २१ ॥ .यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: । .यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते ॥ २२ ॥ .तं विद्याद्दु:खसंयोगवियोगं योगसंज्ञितम् ॥ २३ ॥
6.24स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा । .सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: । .मनसैवेन्द्रियग्रामं विनियम्य समन्तत: ॥ २४ ॥
6.25शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया .आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत
6.26यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम .ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत
6.27प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । .उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
6.28युञ्जन्नेवं सदात्मानं योगी विगतकल्मष: । .सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्न‍ुते ॥ २८ ॥
6.29सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । .ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: ॥ २९ ॥
6.30यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । .तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥
6.31सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: । .सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥
6.32आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । .सुखं वा यदि वा दु:खं स योगी परमो मत: ॥ ३२ ॥
6.33अर्जुन उवाच .योऽयं योगस्त्वया प्रोक्त: साम्येन मधुसूदन ।
6.34चञ्चलं हि मन: कृष्ण प्रमाथि बलवद्दृढम् । .तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥
6.35श्रीभगवानुवाच .असंशयं महाबाहो मनो दुर्निग्रहं चलम् । .अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥
6.36असंयतात्मना योगो दुष्प्राप इति मे मति: । .वश्यात्मना तु यतता शक्योऽवाप्‍तुमुपायत: ॥ ३६ ॥
6.37अर्जुन उवाच .अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः .अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति
6.38कच्च‍िन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । .अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि ॥ ३८ ॥
6.39एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः .तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते
6.40शरीभगवान उवाच .पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते .न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति
6.41प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा: । .श‍ुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥
6.42अथवा योगिनामेव कुले भवति धीमताम् । .एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥
6.43तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । .यतते च ततो भूय: संसिद्धौ कुरुनन्दन ॥ ४३ ॥
6.44पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स: । .जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥
6.45प्रयत्‍नाद्यतमानस्तु योगी संश‍ुद्धकिल्बिष: । .अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥
6.46तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिक: । .कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥
6.47योगिनामपि सर्वेषां मद्ग‍तेनान्तरात्मना । .श्रद्धावान्भजते यो मां स मे युक्ततमो मत: ॥ ४७ ॥ .एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥
Donate to Bhaktivedanta Library